Friday, October 17, 2008

बाल-निवेदन

भगवन् ! 
बाल-निवेदनमेतत्।

हे जगदीश दयामय माधव तव चरणेषु नमामः।
ज्ञानविहीना बाल एते तावक-शरणं यामः॥भगवन्।

त्वं माता त्वं पिता सहायःत्वम् अवलम्बनमेकम्।
कुरु तनयेषु दयामखिलेश्वर।हर सकलम् अविवेकम्॥भगवन्।

शुभ -कर्माणि सदा कलयामः सुपथे सदा चलामः।
देश-धर्म-मानव-सेवायै प्राणानपि त्यजामः।।भगवन्।

देया प्रभो ! ईदृशी बुद्धिः शक्तिरीदृशी देया।
करुणागार ! न जातु शिशुभ्यो दयादृष्टिरपनेया ।।भगवन्।

(लय-भगवन् विनती एक हमारी)

No comments: